(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.70. अध्यायः 070
Mahabharata - Adi Parva - Chapter Topics
ययात्युपाख्यानारम्भः॥ 1 ॥
सञ्जीवनीविद्यालाभार्थं देवैः शुक्रसमीपे कचस्य प्रेषणम्॥ 2 ॥
कचस्य शिष्यत्वेनाङ्गीकारः॥ 3 ॥
दैत्यैर्हतस्य कचस्योज्जीवनम्॥ 4 ॥
दैत्यैर्भस्मीकृत्य तन्मिश्रितसुराद्वारा स्वकुक्षिं प्रापितस्य कचस्य शुक्रेण विद्यादानपूर्वकमुज्जीवनम्॥ 5 ॥
शुक्रेण सुरापाननिषेधः॥ 6 ॥
Mahabharata - Adi Parva - Chapter Text

जनमेजय उवाच। 1-70-0x(334)(3179)
ययातिः पूर्वजोऽस्माकं दशमो यः प्रजापतेः।
कथं स शुक्रतनयां लेभे परमदुर्लभाम्॥ 1-70-1(3180)
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन।
आनुपूर्व्या च मे शंस राज्ञो वंशकरान्पृथक्॥ 1-70-2(3181)
वैशम्पायन उवाच। 1-70-3x(335)
ययातिरासीन्नृपतिर्देवराजसमद्युतिः।
तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा॥ 1-70-3(3182)
तत्तेऽहं संप्रवक्ष्यामि पृच्छते जनमेजय।
देवयान्याश्च संयोगं ययातेर्नाहुषस्य च॥ 1-70-4(3183)
सुराणामसुराणां च समजायत वै मिथः।
ऐश्वर्यं प्रति संघर्षस्त्रैलोक्ये सचराचरे॥ 1-70-5(3184)
जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम्।
पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे॥ 1-70-6(3185)
ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम्।
तत्र देवा निजघ्नुर्यान्दानवान्युधि संगतान्॥ 1-70-7(3186)
तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात्।
ततस्ते पुनरुत्थाय योधयांचक्रिरे सुरान्॥ 1-70-8(3187)
असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि।
न तान्सञ्जीवयामास बृहस्पतिरुदारधीः॥ 1-70-9(3188)
न हि वेद स तां विद्यां यां काव्योवेत्ति वीर्यवान्।
सञ्जीविनीं ततो देवा विषादमगमन्परम्॥ 1-70-10(3189)
ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा।
ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः॥ 1-70-11(3190)
भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम्।
या सा विद्या निवसति ब्राह्मणेऽमिततेजसि॥ 1-70-12(3191)
शुक्रे तामाहर क्षिप्रं भागभाङ्गो भविष्यसि।
वृषपर्वसमीपे हि शक्यो द्रष्टुं त्वया द्विजः॥ 1-70-13(3192)
रक्षते दानवांस्तत्र न स रक्षत्यदानवान्।
तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम्॥ 1-70-14(3193)
देवयानीं च दयितां सुतां तस्य महात्मनः।
त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते॥ 1-70-15(3194)
शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च।
देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम्॥ 1-70-16(3195)
वैशम्पायन उवाच। 1-70-17x(336)
तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः।
तदाऽभिपूजितो देवैः समीपे वृषपर्वणः॥ 1-70-17(3196)
स गत्वा त्वरितो राजन्देवैः संप्रेषितः कचः।
असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह॥ 1-70-18(3197)
ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः।
नाम्ना कच इति ख्यातं शिष्यं गृह्णात् मां भवान्॥ 1-70-19(3198)
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ।
अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान्॥ 1-70-20(3199)
शुक्र उवाच। 1-70-21x(337)
कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः।
अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः॥ 1-70-21(3200)
वैशम्पायन उवाच। 1-70-22x(338)
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम्।
आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम्॥ 1-70-22(3201)
व्रतस्य प्राप्तकालं स यथोक्तं प्रत्यगृह्णत।
आराधयन्नुपाध्यायं देवयानीं च भारत॥ 1-70-23(3202)
नित्यमाराधयिष्यंस्तां युवा यौवनगां मुनिः।
गायन्नृत्यन्वादयंश्च देवयानीमतोषयत्॥ 1-70-24(3203)
स शीलयन्देवयानीं कन्यां संप्राप्तयौवनाम्।
पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत॥ 1-70-25(3204)
देवयान्यपि तं विप्रं नियमव्रतधारिणम्।
गायन्ती च ललन्ती च रहः पर्यचरत्तथा॥ 1-70-26(3205)
`गायन्तं चैव शुल्कं च दातारं प्रियवादिनम्।
नार्यो नरं कामयन्ते रूपिणं स्रग्विणं तथा॥' 1-70-27(3206)
पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम्।
तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम्॥ 1-70-28(3207)
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः।
जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च॥ 1-70-29(3208)
हत्वा शालावृकेभ्यश्च प्रायच्छँल्लवशः कृतम्।
ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम्॥ 1-70-30(3209)
सा दृष्ट्वा रहिता गाश्च कचेनाभ्यागता वनात्।
उवाच वचनं काले देवयान्यथ भारत॥ 1-70-31(3210)
देवयान्युवाच। 1-70-32x(339)
आहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो।
अगोपाश्चागता गावः कचस्तात न दृश्यते॥ 1-70-32(3211)
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति।
तं विना न च जीवेयमिति सत्यं ब्रवीमि ते॥ 1-70-33(3212)
शुक्र उवाच। 1-70-34x(340)
अयमेहीति संशब्द्य मृतं संजीवयाम्यहम्। 1-70-34(3213)
वैशम्पायन उवाच।
ततः संजीविनीं विद्यां प्रयुज्य कचमाह्वयत्॥ 1-70-34x(341)
भित्त्वा भित्त्वा शरीराणि वृकाणां स विनिर्गतः।
आहूतः प्रादुरभवत्कचो हृष्टोऽथ विद्यया॥ 1-70-35(3214)
कस्माच्चिरायितोऽसीति पृष्टस्तामाह भार्गवीम्। 1-70-36(3215)
कच उवाच।
समिधश्च कुशादीनि काष्ठभारं च भामिनि॥ 1-70-36x(342)
गृहीत्वा श्रमभारार्तो वटवृक्षं समाश्रितः।
गावश्च सहिताः सर्वा वृक्षच्छायामुपाश्रिताः॥ 1-70-37(3216)
असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन्।
बृहस्पतिसुतश्चाहं कच इत्यभिविश्रुतः॥ 1-70-38(3217)
इत्युक्तमात्रे मां हत्वा पेषीकृत्वा तु दानवाः।
दत्त्वा शालावृकेभ्यस्तु सुखं जग्मुः स्वमालयं॥ 1-70-39(3218)
आहूतो विद्यया भद्रे भार्गवेण महात्मना।
त्वत्समीपमिहायातः कथंचित्प्राप्तजीवितः॥ 1-70-40(3219)
हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया।
स पुनर्देवयान्योक्तः पुष्पाण्याहर मे द्विज॥ 1-70-41(3220)
वनं ययौ कचो विप्रो ददृशुर्दानवाश्च तम्।
पुनस्तं पेषयित्वा तु समुद्राम्भस्यमिश्रयन्॥ 1-70-42(3221)
चिरं गतं पुनः कन्या पित्रे तं संन्यवेदयत्।
विप्रेण पुनराहूतो विद्यया गुरुदेहजः।
पुनरावृत्य तद्वृत्तं न्यवेदयत तद्यथा॥ 1-70-43(3222)
ततस्तृतीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः।
प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तथा॥ 1-70-44(3223)
`अपिबत्सुरया सार्धं कचभस्म भृगूद्वहः।
सा सायन्तनवेलायामगोपा गाः समागताः॥ 1-70-45(3224)
देवयानी शङ्कमाना दृष्ट्वा पितरमब्रवीत्।'
पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते॥ 1-70-46(3225)
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति।
तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते॥ 1-70-47(3226)
`वैशम्पायन उवाच। 1-70-48x(343)
श्रुत्वा पुत्रीवचः काव्यो मन्त्रेणाहूतवान्कचम्।
ज्ञात्वा बहिष्ठमज्ञात्वा स्वकुक्षिस्थं कचं नृप'॥ 1-70-48(3227)
शुक्र उवाच। 1-70-49x(344)
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः।
विद्यया जीवितोऽप्येवं हन्यते करवाम किम्॥ 1-70-49(3228)
मैवं शुचो मा रुद देवयानि
न त्वादृशी मर्त्यमनुप्रशोचते।
यस्यास्तव ब्रह्म च ब्राह्मणाश्च
सेन्द्रा देवा वसवोऽथाश्विनौ च॥ 1-70-50(3229)
सुरद्विषश्चैव जगच्च सर्व-
मुपस्थाने सन्नमन्ति प्रभावात्।
अशक्योऽसौ जीवयितुं द्विजातिः
संजीवितो वध्यते चैव भूयः॥ 1-70-51(3230)
देवयान्युवाच। 1-70-52x(345)
यस्याङ्गिरा वृद्धतमः पितामहो
बृहस्पतिश्चापि पिता तपोनिधिः।
ऋषेः पुत्रं तमथो वापि पौत्रं
कथं न शोचेयमहं न रुद्याम्॥ 1-70-52(3231)
स ब्रह्मचारी च तपोधनश्च
सदोत्थितः कर्मसु चैव दक्षः।
कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये
प्रियो हि मे तात कचोऽभिरूपः॥ 1-70-53(3232)
शुक्र उवाच। 1-70-54x(346)
असंशयं मामसुरा द्विषन्ति
ये शिष्यं मेऽनागसं सूदयन्ति।
अब्राह्मणं कर्तुमिच्छ्ति रौद्रा-
स्ते मां यथा व्यभिचरन्ति नित्यम्।
अप्यस्य पापस्य भवेदिहान्तः
कं ब्रह्महत्या न दहेदपीन्द्रम्॥ 1-70-54(3233)
`वैशम्पायन उवाच। 1-70-55x(347)
संचोदितो देवयान्या महर्षिः पुनराह्वयत्।
संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम्॥ 1-70-55(3234)
कचोऽपि राजन्स महानुभावो
विद्याबलाल्लब्धमतिर्महात्मा।'
गुरोर्हि भीतो विद्यया चोपहूतः।
शनैर्वाक्यं जठरे व्याजहार॥ 1-70-56(3235)
`प्रसीद भगवन्मह्यं कचोऽहमभिवादये।
यथा बहुमतः पुत्रस्तथा मन्यतु मां भवान्॥' 1-70-57(3236)
वैशम्पायन उवाच। 1-70-58x(348)
तमब्रवीत्केन पथोपनीत-
स्त्वं चोदरे तिष्ठसि ब्रूहि विप्र।
अस्मिन्मुहूर्ते ह्यसुरान्विनाश्य
गच्छामि देवानहमद्य विप्र॥ 1-70-58(3237)
कच उवाच। 1-70-59x(349)
तव प्रसादान्न जहाति मां स्मृतिः
स्मरामि सर्वं यच्च यथा च वृत्तम्।
नत्वेवं स्यात्तपसः संक्षयो मे
ततः क्लेशं घोरमिमं सहामि॥ 1-70-59(3238)
असुरैः सुरायां भवतोऽस्मि दत्तो
हत्वा दग्ध्वा चूर्णयित्वा च काव्य।
ब्राह्मीं मायां चासुरीं विप्र मायां
त्वयि स्थिते कथमेवातिवर्तेत्॥ 1-70-60(3239)
शुक्र उवाच। 1-70-61x(350)
किं ते प्रियं करवाण्यद्य वत्से
वधेन मे जीवितं स्यात्कचस्य।
नान्यत्र कुक्षेर्मम भेदनेन
दृश्येत्कचो मद्गतो देवयानि॥ 1-70-61(3240)
देवयान्युवाच। 1-70-62x(351)
द्वौ मां शोकावग्निकल्पौ दहेतां
कचस्य नाशस्तव चैवोपघातः।
कचस्य नाशे मम शर्म नास्ति
तवोपघाते जीवितुं नास्मि शक्ता॥ 1-70-62(3241)
शुक्र उवाच। 1-70-63x(352)
संसिद्धरूपोऽसि बृहस्पतेः सुत
यत्त्वां भक्तं भजते देवयानी।
विद्यामिमां प्राप्नुहि जीवनीं त्वं
न चेदिन्द्रः कचरूपी त्वमद्य॥ 1-70-63(3242)
न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात्।
ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि॥ 1-70-64(3243)
पुत्रो भूत्वा भावय भावितो मा-
मस्मद्देहादुपनिष्क्रम्य तात।
समीक्षेथा धर्मवतीमवेक्षां
गुरोः सकाशात्प्राप्य विद्यां सविद्यः॥ 1-70-65(3244)
वैशम्पायन उवाच। 1-70-66x(353)
गुरोः सकाशात्समवाप्य विद्यां
भित्त्वा कुक्षिं निर्विचक्राम विप्रः।
कचोऽभिरूपस्तत्क्षणाद्ब्राह्मणस्य
शुक्लात्यये पौर्णमास्यामिवेन्दुः॥ 1-70-66(3245)
दृष्ट्वा च तं पतितं ब्रह्मराशि-
मुत्थापयामास मृतं कचोऽपि।
विद्यां सिद्धां तामवाप्याभिवाद्य
ततः कचस्तं गुरुमित्युवाच॥ 1-70-67(3246)
यः श्रोत्रयोरमृतं सन्निषिञ्चे-
द्विद्यामविद्यस्य यथा त्वमार्यः।
तं मन्येऽहं पितरं मातरं च
तस्मै न द्रुह्येत्कृतमस्य जानन्॥ 1-70-68(3247)
ऋतस्य दातारमनुत्तमस्य
निधिं निधीनामपि लब्धविद्याः।
ये नाद्रियन्ते गुरुमर्चनीयं
पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः॥ 1-70-69(3248)
वैशम्पायन उवाच। 1-70-70x(354)
सुरापानाद्वञ्चनां प्राप्य विद्वा-
न्संज्ञानाशं चैव महातिघोरम्।
दृष्ट्वा कचं चापि तथाभिरूपं
पीतं तदा सुरया मोहितेन॥ 1-70-70(3249)
समन्युरुत्थाय महानुभाव-
स्तदोशना विप्रहितं चिकीर्षुः।
सुरापानं प्रति संजातमन्युः
काव्यः स्वयं वाक्यमिदं जगाद॥ 1-70-71(3250)
यो ब्राह्मणोऽद्यप्रभृतीह कश्चि-
न्मोहात्सुरां पास्यति मन्दबुद्धिः।
अपेतधर्मा ब्र्हमहा चैव स स्या-
दस्मिंल्लोके गर्हितः स्यात्परे च॥ 1-70-72(3251)
मया चैतां विप्रधर्मोक्तिसीमां
मर्यादां वै स्थापितां सर्वलोके।
सन्तो विप्राः शुश्रुवांसो गुरूणां
देवा लोकाश्चोपशृण्वन्तु सर्वे॥ 1-70-73(3252)
वैशम्पायन उवाच। 1-70-74x(355)
इतीदमुक्त्वा स महानुभाव-
स्तपोनिधीनां निधिरप्रमेयः।
तान्दानवान्दैवविमूढबुद्धी-
निदं समाहूय वचोऽभ्युवाच॥ 1-70-74(3253)
आचक्षे वो दानवा बालिशाः स्थ
सिद्धः कचो वत्स्यति मत्सकाशे।
सञ्जीविनीं प्राप्य विद्यां महात्मा
तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः॥ 1-70-75(3254)
`योऽकार्षीद्दुष्करं कर्म देवानां कारणात्कचः।
न तत्किर्तिर्जरां गच्छेद्याज्ञीयश्च भविष्यति॥ 1-70-76(3255)
वैशम्पायन उवाच।' 1-70-77x(356)
एतावदुक्त्वा वचनं विरराम स भार्गवः।
दानवा विस्मयाविष्टाः प्रययुः स्वं निवेशनम्॥ 1-70-77(3256)
गुरोरुष्य सकाशे तु दश वर्षशतानि सः।
अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम्॥ ॥ 1-70-78(3257)

इति श्रीमन्मेहाभारते आदिपर्वणि संभवपर्वणि सप्ततितमोऽध्यायः॥ 70 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-70-3 विप्रदानवौ वव्राते जामातृत्वेनेति शेषः॥ 1-70-25 प्रेषणैः प्रेष्यत्वादिभिः॥ 1-70-31 उवाच शुक्रं प्रति॥ 1-70-39 पेषः पिष्टम्। पिष्टीकृत्येत्यर्थः॥ 1-70-43 गुरुदेहजः कचः। आवृत्य आगत्य। तद्वृत्तमसुरचेष्टितम्॥ 1-70-44 ब्राह्मणाय शुक्राय॥ 1-70-50 मर्त्यं त्वं तु मत्प्रभावादमरकल्पासि। ब्रह्म वेदः तस्य नमनं स्वार्थप्रकाशेन॥ 1-70-60 चाद्दैवीं मायां। मायात्रयविदि त्वयि सति को देवोऽसुरो ब्राह्मणो वाऽतिक्रामेदतस्त्वदुदरभेदनं मम दुःसाध्यमेवेति भावः॥ 1-70-65 भावय जीवय भावितो मया जीवितः। कृतघ्नो मा भूरिति भावः॥ 1-70-66 शुक्लस्याह्नो रवेर्वा अत्यये शुक्लात्यये॥ 1-70-69 ऋतस्य वेदस्य। निधीनां विद्यानां निधिमाश्रयम्। प्रतिष्ठा विद्याफलं तच्छून्या अप्रतिष्ठाः॥ सप्ततितमोऽध्यायः॥ 70 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.